2025-01-21 07:36:38 by ambuda-bot
This page has not been fully proofread.
सरः ]
त्रिगुणपरीक्षायां परमाणुकारणंवादभङ्गः
193
भावप्रकाशः
अभूतं ख्यापयत्यर्थं
भूतमावृत्य
वर्तते ।
अविद्या जायमानेव कामलातङ्कवृत्तिवत् ॥
तदुपदर्शितं च प्रतीत्यसमुत्पन्नं वस्तुरूपं संवृतिरुच्यते । तदेव लोकसं-
वृतिसत्यमित्यभिधीयते लोकस्यैव संवृत्या तत्सत्यमिति कृत्वा । यदुक्तं-
मोहः स्वभावावरणाद्धि संवृतिः
सत्यं तथा ख्याति यदेव कृत्रिमम् ।
जगाद तत्संवृतिसत्यमित्यसौ
मुनिः पदार्थं कृतकं च संवृतिम् ॥
इति । सा च संवृतिर्द्विविधा लोकत एव । तथ्यसंवृतिर्मिथ्यासंवृति-
श्चेति । तथाहि—किञ्चित् प्रतीत्यजातं नीलादिकं वस्तुरूपमदोष-
वदिन्द्रियैरुपलब्धं लोकत एव सत्यं । मायामरीचिप्रतिबिम्बादिषु
प्रतीत्यसमुपजातमपि दोषवदिन्द्रियोपलब्धं यथास्वं तीर्थिक सिद्धान्त-
परिकल्पितं च लोकत एव मिथ्या । तदुक्तं —
विनोपघातेन यदिन्द्रियाणां
षण्णामपि ग्राह्यमवैति लोकः ।
सत्यं हि तल्लोकत एव शेषं
विकल्पितं लोकत एव मिथ्या ।
इति । एतत्तदुभयमपि सम्यग्दृशामार्याणां मृषा । परमार्थदशायां
संवृतिसत्यालोकत्वात् । एतत् समनन्तरमेवोपपत्त्या प्रतिपादयिष्यामः ।
तस्मादविद्यावतां वस्तुस्वभावो न प्रतिभासत इति । परम उत्तमोऽर्थः
परमार्थः अकृत्रिमं वस्तुरूपं । यदभिगमात्सर्वावृतिवासनानुसन्धि-
क्लेशप्रहाणं भवति । सर्वधर्माणां निस्स्वभावता शून्यता तथता भूत-
कोटिः धर्मधातुरित्यादिपर्यायाः । सर्वस्य हि प्रतीत्यसमुत्पन्नस्य
SARVARTHA.
13