Proofing

This page has not been fully proofread.

८६०
 
सूत्रभाष्ये
 
[ पा. ४.
 
विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपम्, न केवलं
विकारमात्र गोचरं सवितृमण्डलाद्यधिष्ठानम्; तथा हि अस्य
द्विरूपां स्थितिमाह आम्नाय :- 'तावानस्य महिमा ततो
ज्यायाश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं
दिवि ' इत्येवमादिः । न च तत् निर्विकाररूपम् इतरालम्ब-
नाः प्राप्नुवन्तीति शक्यं वक्तुम् अतत्क्रतुत्वात्तेषाम् । अतश्च
यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवाव-
तिष्ठन्ते, एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह
एवावतिष्ठन्त इति द्रष्टव्यम् ॥
 
दर्शयतचैवं प्रत्यक्षानुमाने ॥ २० ॥
 
दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिष: श्रुतिस्मृती-
'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति
कुतोऽयमग्निः' इति, 'न तद्भासयते सूर्यो न शशाङ्को न
पावक:' इति च । तदेवं विकारावर्तित्वं परस्य ज्योतिषः
प्रसिद्धमित्यभिप्राय: ॥
 
भोगमात्र साम्यलिङ्गाच्च ॥ २१ ॥
 
इतश्च न निरङ्कुशं विकारालम्बनानामैश्वर्यम्, यस्मात्
भोगमात्रमेव एषाम् अनादिसिद्धेश्वरेण समानमिति श्रयते
- ' तमाहापो वै खलु मीयन्ते लोकोऽसौ ' इति ' स यथैतां