Proofing

This page has not been fully proofread.

८५८
 
सूत्रभाष्ये
 
[पा. ४.
 
मात्मैवाभूत् ' 'यत्र सुप्तो न कंचन कामं कामयते न कंचन
स्वप्नं पश्यति' इत्यादिश्रुतिभ्यः । सगुणविद्याविपाकस्थानं तु
एतत् स्वर्गादिवत् अवस्थान्तरम्, यत्रैतदैश्वर्यमुपवर्ण्यते ।
तस्माददोषः ॥
 
जगद्व्यापारवर्ज प्रकरणादसंनिहि-
 
तत्वाच्च ॥ १७ ॥
 
"
 
सगुणोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रज-
न्ति, किं तेषां निरवग्रहमैश्वर्यं भवति, आहोस्वित्सावग्रह-
७. जगद्व्यापारा- मिति संशयः । किं तावत्प्राप्तम् ? निर-
धिकरणम् । ङ्कशमेव एषामैश्वर्यं भवितुमर्हति 'आप्नोति
स्वाराज्यम्' 'सर्वेऽस्मै देवा बलिमावहन्ति ' ' तेषां सर्वेषु
लोकेषु कामचारो भवति' इत्यादिश्रुतिभ्य इति । एवं प्राप्ते,
पठति — जगव्यापारवर्जमिति ; जगदुत्पत्त्यादिव्यापारं वर्ज-
यित्वा अन्यत् अणिमाद्यात्मकमैश्वर्य मुक्तानां भवितुमर्हति,
जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्य ; कुत: ? तस्य तत्र
प्रकृतत्वात्; असंनिहितत्वाच्चेतरेषाम् पर एव हि ईश्वरो
जगद्व्यपारेऽधिकृतः, तमेव प्रकृत्य उत्पत्त्याद्युपदेशात्, नि-
त्यशब्दनिबन्धनत्वाच्च ; तदन्वेषणविजिज्ञासनपूर्वकं तु इतरे-
षामणिमाद्यैश्वर्य श्रूयते ; तेनासंनिहितास्ते जगव्यापारे । स-