2026-05-06 05:22:02 by ambuda-bot
This page has not been fully proofread.
सु. ८.]
चतुर्थोऽध्यायः ।
८२९
वगन्तव्यम् ' तान्वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्म-
लोकं गमयति' इति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तु
तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित्
अनुग्राहका इत्यवगन्तव्यम् । तस्मात्साधूक्तम् - आतिवा-
हिका देवतात्मानोऽचिरादय इति ॥
'
कार्य बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
स एनान्ब्रह्म गमयति' इत्यत्र विचिकित्स्यते- किं
कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं
५. कार्याधि - ब्रह्मेति । कुत: संशय: ? ब्रह्मशब्दप्रयो -
करणम् । गात्, गतिश्रुतेश्च । तत्र कार्यमेव सगुण-
मपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो
मन्यते ; कुत: ? अस्य गत्युपपत्ते:- अस्य हि कार्यब्रह्मणो
गन्तव्यस्त्वमुपपद्यते, प्रदेशवत्त्वात् न तु परस्मिन्ब्रह्मणि
गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्म-
त्वाच्च गन्तॄणाम् ॥
6
विशेषितत्वाच्च ॥ ८ ॥
'ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो
वसन्ति' इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषयैव