Proofing

This page has not been fully proofread.

८२२
 
सूत्रभाष्ये
 
अर्चिरादिना तत्प्रथितेः ॥ १ ॥
 
[ पा. ३.
 
अर्चिरादिनेति ; सर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना
रहतीति प्रतिजानीमहे ; कुत: ? तत्प्रथिते: ; प्रथितो ह्येष
१. अर्चिराय - मार्गः सर्वेषां विदुषाम् ; तथा हि पञ्चा -
विकरणम् । निविद्याप्रकरणे - 'येचामी अरण्ये श्रद्धां
सत्यमुपासते " इति विद्यान्तरशीलिनामपि अर्चिरादिका
सृतिः श्राव्यते । स्यादेतत्-यासु विद्यासु न काचिद्वतिरु-
च्यते, तासु इयमर्चिरादिका उपतिष्ठताम् ; यासु तु अन्या
श्राव्यते तासु किमित्यचिराद्याश्रयणमिति, अलोच्यते-
 
"
 
एकैव
 
भवेदेतदेवम्, यद्यत्यन्तभिन्ना एव एताः सृतयः स्युः ;
त्वेषा सृति: अनेकविशेषणा ब्रह्मलोकप्रपदनी कचित् केन-
चित् विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञा-
नात् इतरेतरविशेषणविशेष्यभावोपपत्तेः प्रकरणभेदेऽपि
 
हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिवि -
शेषणानामप्युपसंहारः ; विद्याभेदेऽपि तु गत्येकदेशप्रत्यभि-
ज्ञानात् गन्तव्याभेदाच्च गत्यभेद एव; तथा हि- ' ते तेषु
 
1
 
'
 
ब्रह्मलोकेषु पराः परावतो वसन्ति' ' तस्मिन्वसन्ति,
शाश्वतीः समाः 'सा या ब्रह्मणो जितिर्या व्युष्टिस्तां.
जिति जयति तां व्युष्टिं व्यश्नुते' 'तद्य एवैतं