Proofing

This page has not been fully proofread.


 
तृतीयः पादः ॥
 
मृत्युपक्रमात् समानोत्कान्तिरि-
त्युक्तम; स्रुतिस्तु श्रुत्यन्तरेष्वनेकधा
श्रूयते - नाडीरश्मिसंबन्धेनैका 'अ-
थैतैरेव रश्मिभिरूर्ध्व आक्रमते ' इति ;
अर्चिरादिकैका ' तेऽर्चिषमभिसंभव-
न्त्यर्चिषोऽह : ' इति ; ' स एतं देवयानं
पन्थानमासाद्याग्निलोकमागच्छति' इत्यन्या; 'यदा वै पुरु-
षोऽस्माल्लोकात्प्रेति स वायुमागच्छति' इत्यपरा; 'सूर्यद्वा-
रेण ते विरजाः प्रयान्ति' इति च अपरा । तत्र संशयः-
किं परस्परं भिन्ना एताः सुतयः, किं वा एकैव अनेकवि-
शेषणेति । तत्र प्राप्तं तावत् भिन्ना एताः सृतय इति,
भिन्नप्रकरणत्वात्, भिन्नोपासनशेषत्वाच्च ; अपि च ' अथै-
तैरेव रश्मिभि:' इत्यवधारणम् अचिराद्यपेक्षायाम् उपरु-
ध्येत, त्वरावचनं च पीड्येत - 'स यावत्क्षिप्येन्मनस्ताव-
दादित्यं गच्छति' इति तस्मादन्योन्यभिन्ना एवैते पन्थान
इति । एवं प्राप्ते, अभिदध्महे -