2026-05-06 05:21:54 by ambuda-bot
This page has not been fully proofread.
८१६
सूत्रभाष्ये
'
[पा. २.
तायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते
तेऽमुष्मन्नादित्ये सृप्ता:' इति ; निदाघसमये च निशास्वपि
किरणानुवृत्तिरुपलभ्यते, प्रतापादिकार्यदर्शनात्; स्तोकानु-
वृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीपु, शैशिरेष्विव दुर्दिनेषु ;
' अहरेवैतद्रात्रौ दधाति' इति च एतदेव दर्शयति । यदि
च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत, रश्म्य-
नुसारानर्थक्यं भवेत् ; न ह्येतत् विशिष्य अभिधीयते-
यो दिवा प्रैति, स रश्मीनपेक्ष्योर्ध्वमाक्रमते यस्तु रात्रौ
सोऽनपेक्ष्यैवेति अथ तु विद्वानपि रात्रिप्रायणापराधमा
त्रेण नोर्ध्वमाक्रमेत, पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां
स्यात्, मृत्युकालानियमात् ; अथापि रात्रावुपरतोऽहराग-
मम् उदीक्षेत, अहरागमेऽप्यस्य कदाचित् अररिंमसंब-
न्धार्ह शरीरं स्यात् पावकादिसंपर्कात्; 'स यावत्क्षिप्येन्म-
नस्तावदादित्यं गच्छति' इति च श्रुतिः अनुदीक्षां दर्श-
यति । तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसा-
रित्वम् ॥
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
अत एव च उदीक्षानुपपत्तेः, अपाक्षिकफलत्वाच्च वि-
द्याया:, अनियतकालत्वाच्च मृत्योः, दक्षिणायनेऽपि श्रियमा-