Proofing

This page has not been fully proofread.

सू. ३.]
 
चतुर्थोऽध्यायः ।
 
८०१
 
इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि संपत्ति: श्रूयते ;
तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मन-
स्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासंभवात् शब्दोपपत्ते-
श्र वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते । सर्वेषां
करणानां मनस्युपसंहाराविशेषे सति वाच: पृथग्ग्रहणम्
'वाङ्मनसि संपद्यते ' इत्युदाहरणानुरोधेन ॥
 
तन्मनः प्राण उत्तरात् ॥ ३ ॥
 
समधिगतमेतत् — 'वाङ्मनसि संपद्यते ' इत्यत्र वृत्तिसं-
 
-
 
पत्तिविवक्षेति; अथ यदुत्तरं वाक्यम्
 
6
 
मनः
 
प्राणे' इति,
 
२. मनोऽधि- किमत्रापि वृत्तिसंपत्तिरेव विवक्ष्यते, उत
 
करणम् । वृत्तिमत्संपत्ति :- इति विचिकित्सायाम्,
वृत्तिमत्संपत्तिरेव अन्न इति प्राप्तम्, श्रुत्यनुग्रहात् तत्प्रकृ-
तित्वोपपत्तेश्च ; तथा हि-' अन्नमयं हि सोम्य मन आपो-
मय: प्राण:' इत्यन्नयोनि मन आमनन्ति, अब्योनिं च प्रा-
णम् ; आपश्चान्नमसृजन्त - इति श्रुतिः । अतश्च यन्मनः
प्राणे प्रलीयते, अन्नमेव तदप्सु प्रलीयते; अन्नं हि मनः,
आपश्च प्राणः, प्रकृतिविकाराभेदादिति । एवं प्राप्ते, ब्रूमः -
तदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्र-
लीयत इति उत्तराद्वाक्यादवगन्तव्यम्; तथा हि सुषुप्सो-