Proofing

This page has not been fully proofread.

७९०
 
सूत्रभाष्ये
 
[ पा. १.
 
सुकृतदुष्कृतयोस्तुल्यत्वात्, 'क्षीयन्ते चास्य कर्माणि ' इति
च अविशेषश्रुतेः । यत्रापि केवल एव पाप्मशब्द: पठ्यते,
तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम्, ज्ञानापेक्षया
निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्येऽपि पाप्मशब्द:- ' नैनं
सेतुमहोरात्रे तरत:' इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य,
सर्वे पाप्मानोऽतो निवर्तन्ते ' इत्यविशेषेणैव प्रकृते पुण्ये पा-
मशब्दप्रयोगात् । ' पाते तु' इति तु शब्दोऽवधारणार्थः ।
एवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः
अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति ॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशो-
Sवधारितः ; स किमविशेषेण आरब्धकार्ययोरनारब्धकार्य-
११. अनारब्धा- योश्च भवति, उत विशेषेणानाख्धकार्ययो-
 
धिकरणम् । रेवेति विचार्यते । तत्र ' उभे उ हैवैष एते
तरति' इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं
प्राप्ते, प्रत्याह- अनारब्धकार्ये एव त्विति । अप्रवृत्तफले एव
पूर्वे जन्मान्तरसंचिते, अस्मिन्नपि च जन्मनि प्राग्ज्ञानो-
त्पत्तेः संचिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; न तु आ-
 
कार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म