This page has not been fully proofread.

२९८
 
ललितात्रिशतीभाष्यम् ।
 
भक्तस्य यद्यदिष्ट खान्तन्तत्पूरयते ध्रुवम् ।
तस्मात्कुम्भोद्भव मुने कीर्तय त्वमिद सदा ॥
नापर किंचिदपि ते बोद्धव्य नावशिष्यते ।
इति ते कथित स्तोल ललिताप्रीतिदायकम् ॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥
यो ब्रूयानिशीं नाम्ना तस्यानर्थो महान्भवत् ।
इत्याज्ञा शाकरी प्राक्ता तस्माद्गोष्यमिद त्वया ॥
ललिताप्रेरितनैव मयोक्त स्तानमुत्तमम् ।
रहस्यनामसाहस्रादपि गोप्यमिद मुने ॥ ५७ ॥
 
एवमुक्त्वा हयग्रीव कुम्भज तापसोप्तमम् ।
स्तोत्रेणानन ललितां स्तुत्वा त्रिपुरसुन्दरीम् ॥
आनन्दलहरीमग्नमानसः समवर्तत ॥ ५९ ॥
 
इति श्रीललितात्रिशतीस्तोत्र सपूर्णम् ॥