This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२९७
 
साक्षात्कामेशकामेशीकृतेऽस्मिन्गृश्यतामिति ।
मकृत्सकीर्तनादेव नानामस्मिन्त्रये ॥ ४६ ॥
 
भवेचितस्य पर्याप्तिर्न्यनमन्यानपेक्षिणी ।
 
न ज्ञातव्यमितोऽप्यन्यन्न जप्तव्य च कुम्भज ॥
 
यत्साध्यतम कार्य तत्तदर्थमिद जपेत् ।
तत्तत्फलमवाप्नोति पश्चात्कार्य परीक्षयेत् ॥
 
ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्व सिध्यति क्षिप्र नामत्रिशतकीर्तनात् ॥
 
आयुष्कर पुष्टिकर पुत्रद व यकारकम् ।
विद्याप्रद कीर्तिकर सुकवित्व प्रदायकम् ॥५० ॥
 
सर्वपत्प्रद सर्वभोगद सर्वसौख्यदम् ।
सर्वाभीष्टप्रद चैव देव्या नामशतत्रयम् ॥५१॥
 
एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।
तत्कीर्तन सतुष्टा श्रीदेवी ललिताम्बिका ।