This page has not been fully proofread.

२१४
 
ललितात्रिशतीभाष्यम् ।
 
इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
माक्षैकहेतुविद्या तु श्रीविद्या नात्र संशय ॥
 
न शिल्पादिज्ञानयुक्ते विद्वच्छन्द प्रयुज्यते ।
माक्षैकहेतुविद्या मा श्रीविद्यैव न सशय ॥
तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते ।
स्वयं विद्याविंदे दद्यात्ख्यापयत्तद्गुणान्धी ॥
 
स्वयविद्यारहस्यज्ञी विद्यामाहात्म्यवेद्यपि ।
विद्याविद नार्चयेत्को वा त पूजयेजन ॥२८॥
 
प्रसङ्गादिदमुक्त त प्रकृत शृणु कुम्भज ।
य कीर्तयत्मकृद्भक्त्या दिव्यनामशतत्रयम् ॥
 
तस्य पुण्यमह वक्ष्ये शृणु त्व कुम्भसभव ।
रहस्यनाममाहत्रपाठे यत्फलमीरितम् ॥ ३० ॥
 
तत्फल कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्या कृत नामशतत्रयम् ॥