This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२९३
 
न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये जानन्ति लोकऽस्मिन्श्रीविद्या चक्रवेदिनः ॥
 
सामान्यवेदिन सर्वे विशेषज्ञोऽतिदुर्लभ' ।
स्वयविद्याविशेषज्ञो विशेषज्ञ समर्थयेत् ॥ १९ ॥
 
तस्मै देय ततो ग्राह्यमशक्तस्तस्य दापयेत् ।
अन्धनम' प्रविशन्ति येऽविद्या ममुपासते ।
 
इति श्रुतिरपा हैतानविद्योपासकान्पुन ।
विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुति० ॥
 
अश्रुता सश्रुतासश्च यज्वानां येऽप्ययज्वन. ।
स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निं च ये विदुः ॥
 
सिकता इव मयन्ति रश्मिभि समुदीरिताः ।
अस्माल्लोकादमुष्माश्चेत्याह चारण्यकश्रुति' ॥
 
यस्य नो पश्चिम जन्म यदि वा शकर स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पश्चदशाक्षरी ॥