This page has not been fully proofread.

२९०
 
ललितात्रिशतीभाष्यम् ।
 
नन्दब्रह्मस्वरूपतया सैव फल भवति, अन्यज्ञानादन्यफल
प्राप्प्रेरयोगात । 'ब्रह्म वद ब्रह्मैव भवति ' ' तरति शोकमा
त्मवित्', 'येन मामुपयान्ति ते । तषामह समुद्धर्ता मृत्यु
ससारसागरात' 'ब्रह्मैव सन ब्रह्माप्यति' इत्यादिश्रुतिस्मृ
विशतेभ्य स्वस्वरूपप्राप्तरेव पुरुषार्थस्य प्रदातृत्व सिद्धम ॥
ॐ ह्रींकारपरसौख्यदायै नमः ॥
 
इति श्रीमत्परमहसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव
पूज्यपादशिष्यस्य श्रीमच्छकरभगवत कृतौ
श्रीललितात्रिशतीभाष्यम् सपूर्णम् ॥
 
इत्येव ते मयाख्यात देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाद्गोपनीय त्वया सुने ॥
शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्त्यक्षराणि नामानि कामेशकथितानि च ॥
उभयाक्षरनामानि शुभाभ्या कथितानि वै ।
तदन्यैग्रथित स्तोत्रमेतस्य सदृश किमु ॥ ३ ॥
नानेन सदृश स्तोत्र श्रीदेवीप्रीतिदायकम् ।
लोकत्रयेsपि कल्याण सभवेन्नात्र सशय ॥