2026-02-23 01:50:29 by ambuda-bot
This page has not been fully proofread.
२८६
ललितात्रिशतीभाष्यम् ।
शब्द समीपदेशार्थक । ब्रह्मण्यभ्यस्तमायासमीपदेशक
तत्पदार्थ प्रतिबिम्बितम विद्योपाधिकचैतन्य जीवशब्दवान्यमुप
शब्दार्थ लक्षणया प्रतिपायते । नि शब्द षद् इति पदस्य
विशेषणम् । सत इति पद मदनगत्यवसादनेषु भवति ।
तथा च उपशब्दवाच्यो जीव अविद्या निहत्य त्यक्त्वा
ब्रह्मस्वरूपेण निषीदति वर्तत इति उपनिषदित्ये कोऽर्थ ।
जीव ब्रह्म स्वरूपत्वेन निगच्छति जानातीत्यन्योऽर्थ । जी-
व ब्रह्मस्वरूपेण अवसीदति परिसमाप्नोतीति तृतीयोऽथ ।
एवमुपनिषच्छन्दस्य ब्रह्मविद्यावाचकत्वेन प्रसिद्धस्य तद्वाच
कवेदभागे लक्षणवत्त्वेऽप्युपनिषत्छब्दवाच्यो भवति । तथा
च ह्रींकार एव वेद तस्य उपनिषत्प्रधानभूता ब्रह्मविद्ये
त्यर्थ । ॐ ह्रींकारवेदोपनिषदे नम ॥
ह्रींकाराध्वरदक्षिणा । ह्रींकार एव अध्वर यज्ञ तस्य
दक्षिणा समाप्तिसाधनम्, दक्षिणाया दत्ताया यज्ञसमाप्ति
दर्शनात् । ह्रींकारस्यापि जप यजनात्मकतया अध्वान
राति गच्छतीत्यध्वर मार्गसाधक इत्यर्थ । दक्षिणापद
फलवाचि ऋत्विग्व्यापाराणा दक्षिणाफलत्वदर्शनात् । ह्रीं
काराध्वरस्य ह्रींकारजपयज्ञस्य दक्षिणा फलसाधनी भूतपुरु
पार्थरूपा । अथवा ह्रींकाराध्वरस्य दक्षिणा पत्नी, 'मखस्य