This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
'
 
२८५
 
ह्रींकारवेदोपनिषत् । द्यन्ते ज्ञायन्ते सर्वे पदार्था
अनेनेति वेद । जात्येकवचनम् । ह्रींकार एव वद ।
ज्ञापकत्वाविशेषात । तस्य उपनिषद्वेदान्तभाग लक्ष्यार्थो
वा, तत् ब्रह्मोपनिषत्परमिति श्रुत । कर्मोपासनाज्ञानका-
ण्डभेदेन चत्वाराsपि वेदा विप्रकारा । ' तमेत वदानुव
चनेन ब्राह्मणा विविदिषन्ति' इति वाक्येन ज्ञानसाधनतया
कर्मोपासनयो विनियुक्तत्वात्,
अन्धतम प्रविशन्ति ये
विद्यामुपासते । ततो भूय इव ते तमो य उ विधाया
रता ' इति श्रुत्या तदुभयो ससारफलकत्वेन निन्दितत्वाच्च,
'आत्मान चेद्विजानीयादयमस्मीति पुरुष । किमिच्छन् क
स्य कामाय शरीरमनुसज्वरेत ' आत्मकाम आप्तकाम
इत्यादिश्रुतिभ्य अद्वैतज्ञानोत्पादक वेद भागस्योपनिषच्छब्द
वान्यस्य मोक्षफलकत्वेन फलप्रतिपादनात्तदुभयप्रतिपादक
 
,
 
भागापेक्षा श्रेष्ठत्वम्, लाके साधनापेक्षया फलस्य श्रेष्ठत्व
नात्तमत्वप्रसिद्धे । तथा च पूर्वकाण्डद्वयार्थस्य जन्यतया
तत्प्रतिपादकवेदभागस्योपनिषन्छेषत्ववत् ह्रींकारस्यापि पर-
देवता प्रकाशकत्वेन तच्छेषत्वात्तस्या प्राधान्यमुक्तमिति द्रष्ट
व्यम् । वेदान्तेषूपनिषच्छ तज्जन्यतारूपशक्यसबन्धेन प्र
वर्तते । मुख्यया वृत्त्या तु ब्रह्मविद्यायामेव । तथा हि-उप