This page has not been fully proofread.

२८४
 
ललितात्रिशतीभाष्यम ।
 
ख्यत्वाभाववत्त्वेऽपि पार्थिवत्ववदत्र पार्थिवत्वे बाधाभावात ।
द्रवत्वस्यादकस्वभावत्वन तत्कायपृथिव्यामपि उपलम्भोपप
त्तेश्व । तद्विकार, सौवणश्चासौ स्तम्भश्च । सौवर्णस्तम्भम्य
नवरत्नमण्डपभारवाहित्वे सति तदभिन्नत्वेन तदलकार भूतत्व
स्येव साधर्म्यस्य ह्रींकारेऽपि जगदाश्रयत्वे मति तत्कारणत्वे
सति तदन्तर्भूतत्वे सति परमानन्द जनकत्वम्य सत्वेन ह्रींका
रमय इत्यभेदोपचार प्रदीपालकारद्योतनार्थ इति ज्ञातव्यम् ।
कारे उपमेये मयाब्देनोपमानाभेदकल्पनात । तस्मिन्वि
चित्रपप्रधानरूपे तत्सबन्धितया विद्रुमपुत्रिकेव प्रतीय
माना विद्रुमन प्रवालन कृता पुत्रिका सालभञ्जिका । मौव
र्णस्तम्भशब्द उपलक्षण भित्यादीनाम, प्रायस्त्वदर्शनात् तदु
पादान स्वत मनोज्ञस्य स्तम्भस्यातिशयदर्शनीयतायै । दुर्ल
भतरप्रवालपुत्रिका स्तम्भमण्टप तत्स्वामिन तद्दश च प्रकृ
ष्टीकरोति तथा श्रीपरदेवतापि रूढ्यैतद्बीजाथतया तदव
च्छिन्नासती तदादीन सर्वान भूषयति सफलीकरातीत्यथ ॥
ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः ॥
 
ह्रींकारवेदोपनिषद्धींकाराध्वरदक्षिणा ।
 
ह्रींकारनन्दनारामनवकल्पकवल्लरी ॥ ८७ ॥