This page has not been fully proofread.

૨૮૦
 
ललितात्रिशतीभाष्यम् ।
 
सति चिरकालावस्थायित्व मणिदीप सादृश्यम ह्रींकारस्य ।
तस्य प्रकाश अनितरसाधारणमहातिशयवत्त्वेन अनर्घत्व
मावेदयति । तदुपासकस्य निरवधिक महत्त्वापादकहींकार
वाक्यतया तत्प्रकाशकेत्यर्थ । तथा च निरन्तरनमोsपाकर
णेन स्वष्टपदार्थापादनेन च सुखयतीति फलितोऽर्थ ॥ ॐ
ह्रींकारमणिदीपार्चिषे नम ॥
 
ह्रींकारतरुशारिका । तारयति फलार्थिन स्वारूढान्
पतनादे रक्षतीति तरु, तस्य शारिका पिङ्गतुण्डनेत्रचरणा
शारिका अभ्यासातिशयेन मनुष्य भाषायामपि भाषते ।
भूतभविष्यद्वर्तमानलोकयात्रापरिज्ञात्री सती शुभाशुभफल
प्राप्तिं च स्वभाषया वदति । अस्य बीजस्य वाक्यार्थतया
तसबन्धिनी सती वेदवाचा सर्वे प्रकाशयतीत्यर्थ ॥ ॐ
ह्रींकारतरुशारिकायै नमः ॥
 
ह्रींकारपेटकमणिर्हीकारादर्शबिम्बिता ।
 
ह्रींकारकोशासिलता कारास्थाननर्तकी ॥
 
A
 
A
 
ह्रींकारपेटकमणि । गूहनसाधनतया ह्रींकार पेटकेन
दृष्टान्तीक्रियते । तस्य मणि वैडूर्यमित्यर्थ । यथा हीरा
दिमणि पेटकादौ गापितोऽपि स्वकान्त्या बाह्याभ्यन्तर तस्य