This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२७९
 
ह्रींकारदुग्धाब्धिसुधा ह्रींकार कमलेन्दिरा ।
ह्रींकारमणिदीपार्चिकारतरुशारिका ॥
 
ह्रींकारदुग्धाब्धिसुधा । दोहान्निष्पन्न दुग्धम् । स्तनग
तस्य पयस स्वीयतापादनहस्तक्रियाविशेषो दोह । उपल
क्षण चोषणादीनाम्, तथा च प्रदीपालकार सिद्ध, अनन्तो
दकप्रसारित निम्नभूप्रदेश अब्धिरुच्यते । आप धीयते
अस्मिन्निति तथा । तस्मिन् मजीवकत्व धर्म । डिम्भक
सजीवने स्तन्यादौ दर्शनात् । ड्रींकारस्यापि हकारयुक्ततया
श्वेतवर्णत्वादमृतहेतोच तत्सादृश्यम् । तस्य सुधेव सुधा
तदभिव्यक्तत्वाविशेषात्तत्सेवकाना नित्यत्वे सति बहुविधम
हिमशालितया दर्शनादिति भाव ॥ ॐ ह्रींकारदुग्धाब्धि
सुधायै नमः ॥
 
ह्रींकारकमलेन्दिरा । ह्रींकारबीजस्य विचित्रवर्णतया पर
मप्रीतिविषयतया च कमलोपमा । तम्य वाच्यार्थतया तदु
परितनत्वेन सर्वपुरुषार्थ प्रदातृत्वाश्च कमलशब्देनाभिधीयते ।
तस्था पद्मालयत्वात् ह्रींकारकमलस्य इन्दिरा तदधीनब्रह्म-
विद्येत्यर्थ ॥ ॐ ह्रींकारकमलेन्दिरायै नमः ॥
 
कारमणिदीपार्चि । आधिदैविकाद्युपद्रवानभिभूतवे