This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२७७
 
महाप्रलये सरक्ष्य सर्गादौ जायमानहिरण्यगर्भस्यान्यूनानति
रेकेण तानेव प्रतिभासयति स्वय दपती भूत्वा तदुक्तधर्मा
ननुष्ठाय परेषामप्यनुष्ठापयतीति च । 'वेदशास्त्रे ममेवाज्ञे
वर्त एव च कर्मणि । यदि ह्यह न वर्तेय जातु कर्मण्यतन्द्रि
त । उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम ' इत्यादि
भगवद्वचनादिति द्रष्टव्यम् ॥ ॐ लब्धनानागमस्थित्यै
नमः ॥
 
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूजिता ।
ह्रींकारमूर्तिकार सौधशृङ्गकपोतिका ॥ ५४ ॥
 
लब्धभोगा । भोग सुखमात्रानुभव दु खानुभने उन्य
माने जीवाविशेषप्रसङ्गात् । लब्ध भोग यया सा तथा ।
जीववत क्रमिकरवेष्टपदार्थानुभवानन्तरकालीन सुख न भव
ति, स्वस्था आनन्दरूपत्वेन सिद्धस्वरूपत्वात् साधनभूत-
भोगोऽप्येतद्विषये सिद्ध इत्युपचर्यते इति लब्धभोगेत्सु
sad ॥ ॐ लब्धभोगायै नमः ॥
 
',
 
,
 

 
लब्धसु
 
लब्धसुखा । लब्ध सुख अनुकूलवेदनीय स्वस्वरूप भूत
सुख तत्माधन च धर्म यया सा तथा ॥
स्वायै नमः ॥