This page has not been fully proofread.

२७४
 
ललितात्रिशतीभाष्यम् ।
 
च्छावलम्बितमूर्ति घृतकाठिन्यन्यायेन जीवत्वाभावेन कर्मा
धीनत्वाभावात् । तथा च मति अध्यस्तमायाशक्ते भेदक
त्वस्वाभाव्य 'पतिश्च पत्नी चाभवताम्' इति श्रुत्या च
दपतिमूर्तिमती बभूवेत्यभिप्राय ॥ ॐ लब्धदेहायै नमः ॥
 
लब्धैश्वयसमुन्नति । ऐश्वर्याणा समुन्नति आधिक्य प
raarafac लब्धा ऐश्वर्यसमुन्नति यया सा तथा,
' तमीश्वराणा परम महश्वरम्' इति श्रते 'नान्तोऽस्ति
मम दिव्याना विभूतीना परतप' इति स्मृतेश्च । ' सर्वे
श्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनि सर्वस्य' इति
श्रुतौ निरुपाधिक महदैश्वर्यसपत्ते तदुपासकानामगस्त्यादि
महर्षीणा दर्शनात् तदीयमहदैश्वर्यस्य निरवधिकत्वमिति
किमु वक्तव्यमिति ज्ञायते इत्यभिप्राय ॥ ॐ लब्धैश्वर्य-
समुन्नत्यै नमः ॥
 
,
 
लब्धवृद्धि । बृद्धिर्नाम व्याप्ति परिपूर्णतेत्यथ अव
यवोपचयात्मका न, तस्या कर्मजन्यत्वेन विनाशहेतुत्वात्,
' स वा एष महानज आत्मा न वर्धते कमणा' इति
श्रुतिवचनात् 'निष्क्रिय निष्कलम्' इति अवयवमावनि
बेघाश्च तथा च लब्धा वृद्धि सर्वव्यापकता स्वस्वरूपैव
सती उपाधिभिर्जन्यैस्तदाश्रयभूतै अभिव्यज्यत । न
 
,