This page has not been fully proofread.

२७०
 
ललितात्रिशतीभाष्यम् ।
 
नित्यतृप्तत्वरूपा शक्ति, परदेवतात्मकतया त करोतीति
तथा ॥ ॐ कामेश्वराह्लादकयै नम ॥
 
कामश्वर महेश्वरी । महती च मा इश्वरी निरुपाधिकैश्व
र्यवती, ' महाप्रभुर्वै पुरुष ' इति श्रुते । कामेश्वरम्य मह
दैश्वर्यम् अस्या अस्तीति तथा, भगवतीत्यर्थ I 'ऐश्वर्यस्य
समस्य वीर्यस्य यशस श्रिय । ज्ञानवैराग्ययोश्चैव षण्णा
भग इतीरणा ' तमीश्वराणा परम महेश्वरम' इति श्रुते ॥
ॐ कामेश्वरमहेश्वर्यै नमः ॥
 
कामेश्वरी । मन्मथापासितकादिविद्यारूपेत्यर्थ ॥ ॐ
कामेश्वर्यै नमः ॥
 
कामकोटिनिलया । षण्णवतिपीठेषु मध्य कामकाटि
श्रीचक्रमित्यर्थ । निलय गृह यस्या सा तथा ॥ ॐ का-
मकोटिनिलयायै नम' ॥
 
'
 
काङ्क्षितार्थदा काङ्क्षितान् काङ्क्षाविषयीभूतान प्राप्तम
जातीयेच्छा काङ्क्षा, तगोचरान् पदार्थान ददातीति तथा
काङ्क्षिता सती उपास्यदेवता मे प्रसन्ना भूयादितीच्छया
चिरकालोपासिता सती पुरुषार्थान अप्रार्थयमानस्यापि
स्वयमेव ददातीत्यर्थ ॥ ॐ काङ्क्षितार्थदायै नमः ॥