This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
---
 
२६९
 
सती आवा दपती - इति द्विप्रकारकज्ञानवन्त करोतीति सा
तथा । अभेदज्ञानवत तद्विपरीतज्ञानवत्त्व मोह तत्करोती
ति सा तथा । अथवा, मोहो नाम बुद्धेरेकालम्बनतया तद-
न्याविषयकत्वम् परमेश्वरस्य स्वस्वरूपपरदेवतापरमानन्द
साक्षात्कारेण स्थाणुवन्निश्चलतया उपचारेण मोहवत्तया तदि
तरप्रपञ्चाकारकृत्याद्याश्रयतादर्शनेन मोहयतीत्युपचारनाम ।
मोतीत्यर्थ । अन्त पुरगत राजान स्त्रियासक्तमितिव
दित्यर्थ ॥ ॐ कामेश्वरविमोहिन्यै नम ॥
 
कामश्वरब्रह्मविद्या । कामेश्वरस्य तत्त्वपदार्थसाक्षात्कार
भूतेत्यर्थ, 'य साक्षादपरोक्षाद्ब्रह्म' इति श्रुते ॥
कामेश्वरब्रह्मविद्यायै नम ॥
 
कामेश्वरगृहेश्वरी । गृह्यत इति ग्रह सर्वज्ञानम् तस्य ईश्व
री विषयाधिष्ठानभूतत्वेन नियामिकेत्यर्थ । अथवा, 'गृहिणी
गृहमुच्यते ' इति न्यायात् कामेश्वर गृहेश्वर स्वस्था अ
धिपति अस्या अस्तीति सा तथा ॥ कामेश्वरगृहेश्वर्यै
 
नम ॥
 
कामेश्वराह्लादकरी कामेश्वर महेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥
कामेश्वराह्रादकरी । आह्लाद तृप्तिजन्यसुख परमेश्वरस्य