This page has not been fully proofread.

ललितात्रिचतीभाष्यम् ।
 
२५७
 
श्रितौ ' इति श्रुत्या 'जीव प्राणधारणे' इति धातुपाठाश्च प्राण
नाडीशब्दस्य लक्षणया परमात्मैवोक्यते । कामेश्वरस्यैव
प्रारब्धकर्मजन्यशरीरमात्राभावेऽपि घृतकाठिन्यन्यायेन मूर्ति
मत्तया तदन्तर्यामिसभावनया एतन्नाम । कामेश्वरस्य प्राण
नाडी तदधिष्ठानचैतन्यमिति फलितोऽर्थ ॥ ॐ कामेश्वर
प्राणनाड्यै नम ॥
 
कामशोत्सगवासिनी । कामेशस्य उत्सगे वामाङ्के वसती
ति तथा । ' अनेकमन्मथाकारकामेशोत्सगवासिनी' इति
ललितातापनीये ॥ ॐ कामेशोत्सगवासिन्यै नमः ॥
 
कामेश्वरालिङ्गिताङ्गी । तेन आलिङ्गितम अङ्गीकृतम् अङ्ग
यथा सा तथा ॥ ॐ कामेश्वरालिङ्गितायै नम ॥
 
कामेश्वरसुखप्रदा । कामेश्वराय सुख प्रददातीति वा ।
कामेश्वरस्य यत्सुख ब्रह्मस्वरूपसच्चिदानन्द साक्षात्कारात्म
कम, ' दवो भूत्वा देवानप्येति' इति श्रुत्युक्तन्यायात् स्व
कीयभक्ताना कामेश्वराभेदरूप सच्चिदानन्दघनात्मक मोक्ष
ददातीत्यर्थ ॥ ॐ कामेश्वरसुखप्रदायै नमः ॥
 
कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतप सिद्धि. कामेश्वरमन प्रिया ॥