This page has not been fully proofread.

२६६
 
ललितात्रिशतीभाष्यम् ।
 
I
 
तानि सनद्धानि वर्तन्त । तस्या मूल पृथ्वीदेवता बिसतन्तुत
यस कुण्डलिन्यधोमुखावरणशक्तिर्निद्राति । तस्या दक्षि-
णभागे इलानामनाडी भ्रूमध्यपर्यन्त प्रसृता
। वामे
पिङ्गला तथा । तथा च जाग्रदवस्थाया नेत्रयो दपत्यात्मना
श्रुतिप्रतिपादित, स्वप्ने मनउपाधिक, सुषुप्तावज्ञानोपाधि
क, जाग्रति स्थूलशरीराभिमानी विश्व इत्युच्यत, स्वप्ने सू-
क्ष्माभिमानी तैजस, सुषुप्तौ कारणाभिमानी प्राज्ञ । सुषु-
प्तौ कारणात्मना स्थितानि स्थूलसूक्ष्मशरीरजन्य भोगमा धन
प्रारब्धकर्मवशेन पुरीद्वारा नाडीमार्गेण तत्तोलकानि प्रवि
शन्ति इन्द्रियाणि । तदुपरमप्रारब्धोद्बोधे आन्दोलिकाया वि
द्यमानो राजा गृहान्तरे सोपानमागद्वारा प्रासादे विहृत्य त-
दवच्छिन्नान्त पुरपर्यङ्के शयान इव नाडीद्वारा पुरीतत्प्रविश्य
तदवच्छिन्नहृदयोपाधिक परमात्मान यदा प्रविशति तदा
सुप्त इत्युच्यते । लिङ्गशरीर कारणात्मना लीयत । तदा प्राणा
दिवायव प्रलीनवृत्तय सन्त आयु स्वरूपेण शरीर रक्षन्ति ।
तथा च भाविजाग्रत्स्वप्रभोगानुकूलकर्मानुबन्धप्राणधारण सु-
षुप्तौ सोपाधिकचैतन्यस्यैव दृश्यते । तत्सत्तया च नाडीना
प्राणसचारयोग्यतापि । एव च सति न प्राणेन नापानेन
मत्यों जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपा-
 
'