This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२६५
 
वाचक अस्या अस्तीति तथा । ॐ ककारिण्यै नमः ॥
काव्यलोला । वाल्मीकिवेदव्यासादिकृतेषु काव्येषु लो
ला, वाच्यलक्ष्यार्थभेदेन तत्र सबद्धेत्यर्थ । अथवा, कवि
भि कृतेषु स्तुतिविशेषेषु प्रीतिमतीत्यर्थ ॥ ॐ काव्यलो
लायै नमः !
 
कामश्वरमनोहरा । कामेश्वरस्य मन हरतीति तथा ।
ॐ कामेश्वरमनोहरायै नम ॥
 
कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥
 
कामेश्वरप्राणनाडी । कामेश्वरस्य प्राणनाडी यथा नाड्या
प्राण सचरति सा तथा, जीवनाडीत्यर्थ । ' इडया तु बहि
र्याति' इति लयखण्डवचनात । लोके विशम्यमाने पशौ हृदय
पुण्डरीकाकार मासखण्डात्मकान्त सुषिराष्टदलोपेतमङ्गुष्ठप
रिमाणसुषिरयुताधाभागकर्णिकामध्य दृश्यते, तथा कर्णिका
या कसरायमाना एकशत नाडीनामङ्करा तद्वेष्टनपुरीत ग्राम
कनाडी सुषिरविन्यस्तमूला भवन्ति । तत्र सुषुम्नानामकनाडी
मूलाधारादारभ्य ब्रह्मर ध्रपर्यन्त गता । तस्या षट् चक्राणि
मूलाधारादीनि तत्तन्मातृकावर्णसहितयोगशास्त्रोक्तदलसयु