This page has not been fully proofread.

२६२
 
ललितात्रिशतीभाष्यम् ।
 
तत्र तत्र निवासयाग्या मूर्तिर्यस्या मति वा । कर्माध्यक्ष
तया तत्तत्फलविशेषदानेषु समा पक्षपातरहिता मूर्तिर्यस्या
सा । समा बाल्यस्थविरत्वादिभावविकारवर्जिता एक
प्रकारा नित्ययौवनशालिनी मूर्तिर्यस्या सा । 'मम सर्वेषु
भूतेषु मद्भक्तिं लभते पराम' अङ्गुष्ठमात्र पुरुषोऽन्तरात्मा
सदा जनाना हृदये मनिविष्ट ' इति स्मृतिश्रुतिभ्यामे-
करूपत्वावगमादित्याशय ॥ ॐ समाकृतये नमः ॥
 
सर्वप्रपवनिर्मात्री । ससारस्थानादितया माक्षस्थायित्वन
च भूतभविष्यद्वर्तमानगत्या सर्वशब्दवान्यत्व प्रपञ्चम्य प्रप
च्यते विस्तार्यते विवर्तत इति प्रपञ्च, 'एक बीज बहुधा
य करोति' इति श्रुते । तस्य निर्मात्री निर्माणमभिव्यक्ति
तन्निमित्ततया तत्तत्कर्तृत्वमुपचर्यते, दवदत्त पचतीतिवत ॥
ॐ सर्वप्रपञ्च निर्मात्र्यै नमः ॥
 
समान,
 
'
 
समानाधिकवर्जिता । कुलशीलजातिगुणादिभि तुल्य
तै श्रेयानधिक तैर्वजिता । । ' न तस्य प्रति-
मास्ति ' ' विश्वाधिको रुद्रो महर्षि ' इति श्रुते, ' सर्वाधि
पत्य कुरुते महात्मा' इति 'एकमेवाद्वितीयम् ' ' न त्वत्स
मोऽस्त्यभ्यधिक कुतोऽन्यो लोकत्रये' इत्यादिश्रुतिस्मृति-
भ्या चेति भाव । एतद्दृष्टथा समाननीय समान पूजनी