This page has not been fully proofread.

२५८
 
ललितात्रिशतीभाष्यम् ।
 
यमुच्यत इत्यर्थं । तयोराश्रया उपादानत्वेन तदधिष्ठानभूते
त्यर्थ । आरोपितस्याधिष्ठानमत्तातिरिक्तसत्ताशून्यतया सत्ता
स्फूर्तिप्रदत्वेन सर्वदा तदनुस्यूतेति ध्येयम ॥ ॐ सदसदा
श्रयायै नमः ॥
 
सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिव कुटुम्बिनी ॥
 
सकला । आरोपितकलाभि उपासनार्थं कल्पिताभि
जाबालिना सत्यकाम प्रत्युक्तषोडशकलायुक्तपुरुषोपासनप्रति
पादकच्छान्दोग्यवचनरीत्या कलाशब्दितावयवै सह वर्तते
इति सा तथा । चतु षष्टिचन्द्रकलाभ्या वा सहिता ।
अथवा, कलाशब्द सुखादिकान्तिवचन तया सहितेति
वा ॥ ॐ सकलायै नमः ॥
 
सचिदानन्दा । सच्चासौ चिश्च सश्चित् सविश्वासौ आन-
न्दा, कालत्रयाबाध्यत्व सत्त्वम्, स्वेतरप्रकाशाप्रकाश्यत्व
चिश्वम्, परमप्रेमास्पदत्वमानन्दत्वम्, 'सत्य ज्ञानमनन्तम् '
विज्ञानमानन्दम् ' ' सदेव सोम्येदमग्र आसीत्
 
'
 
,
 
' प्रज्ञा
 
प्रतिष्ठा प्रज्ञान ब्रह्म 'आनन्दो ब्रह्मेति व्यजानात् ' 'आ
 
नन्द ब्रह्मणो विद्वान्न बिभेति कुतश्चन' इत्यादिश्रुतिभ्य ।