This page has not been fully proofread.

२५६
 
ललितात्रिशतीभाष्यम् ।
 
वाचकशब्द यस्या सा तथा ॥ ॐ सकाराख्यायै नम ॥
 
समरसा । सम एक रस मधुरादिरसवद्गुडपिण्डादा
वेकरूपेण कार्ये व्यवस्थितेत्यर्थ । अथवा, ससारदशाया
सर्वज्ञत्व किंचिज्ज्ञत्वादिविशेषणभेदेन भिन्नरसवत् भिन्नस्वभा
ववत् प्रतीयमानयोरीश्वरजीवयोर्वेदान्तश्रवणादिना जन्या-
खण्डाकारवृत्ति व्याप्त्या अह ब्रह्मास्मि इत्य भेदानुभवदशा-
यामेकरूपतया साक्षात्कियते इति सा तथोन्यते, 'रसो वै
स' इति श्रुते, रसशब्दार्थ परब्रह्म सम अभिन्न यस्या
सा तथा । तैत्तिरीयोपनिषत्प्रतिपाद्येत्यर्थ ॥ ॐ समरसायै
नम ॥
 
सकलागमसस्तुता । आ समन्तात् गमयन्तीति आगमा,
सकलपदार्थगोचरसविकल्पक प्रमाजनकवेदा इत्यर्थ । सकलै
रन्यूनानतिरेकेणेतिहासपुराणसहितयावदङ्गोपाङ्गरहस्यादियो
गित्व सकलशब्दार्थ । तै सस्तुता सम्यक् नात पर किवि
दस्तीति निश्चयपूर्वक स्तुता गुणिनिष्ठगुणाभिधानविषयतया
तदुपजीवकेत्यर्थ । सर्वार्थप्रकाशकवेदाना सर्वशत्वेनैदपर्येण
तदीयस्तुतिविषयतया शुद्धचैतन्यात्मकतया मोक्षकारणीभू
तज्ञानस्वरूपत्वेन जिज्ञास्येति ध्वनितोऽर्थ ॥ ॐ सकला
गमसस्तुतायै नम ॥