This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२५३
 
पितदीप बाह्याभ्यन्तरवस्तुजात प्रकाशयन तत्रत्यलोकाना
मन्धकारादिनिवर्तनपूर्वकमभीष्टव्यवहारहेतुतया सर्वान् ला
घयति स्वयमपि तै सरक्ष्यते, तथा ड्रींकारबीजार्थ श्रवणम
नननिदिध्यासननिरन्तराभ्यासादपरोक्षीकृतस्वयप्रकाशानन्द
रूपा सती स्वसेवकान् सर्वोत्कर्षयतीति तदुपमिता सती
तथोच्यते ॥ ॐ हीकाराङ्गणदीपिकायै नम ॥
ह्रींकारकन्दरासिही ह्रींकाराम्भोजभृङ्गिका ।
ह्रींकारसुमनोमाध्वी ह्रींकारतरुमञ्जरी ।
 
1
 
ह्रींकारकन्दरासिंही । पर्वतशिखाप्रवर्तिगुहा कन्दरा द-
रीत्यर्थ । वेदमौलिपठितहींकारस्य प्राम्यविषयलिप्सुप्राणि
प्रवेशयोग्यताविकलतया कन्दरापमा । तत्र यथा सिंही
स्वेतरक्षुद्रमृगप्रवेश भयहेतुसटादिस्वव्याप्य चिह्नानुमिता तस्या
स्वाश्रयमात्रता धीरस्य तत्परिसरनखनिर्घातमुक्ताफलादि
प्राप्तिं च नयति, तथा मन्दभक्तितन्द्रीबुभुक्षादिकलुषित-
परिच्छिन्नाभिमानदेवतान्तरप्रतिपादकबीजतया स्वदेवतैक
भाव कामितार्थं च प्रापयतीति सिंधुपमिता सती तथो
न्यते ॥ ॐ ह्रींकारकन्दरासिंह नम ॥
 
ह्रींकाराम्भोजभृङ्गिका । ड्रींकारख अष्टैश्वर्यात्मकपुरुषा