This page has not been fully proofread.

२५२
 
ललितात्रिशतीभाष्यम ।
 
क्तिभजनपरप्राणिलोकस्य उपासनापरिपाकमहिना अपरोक्षी-
कृताज्ञाननिवृत्तिपूर्वक भयापकरणेनानन्द प्रापयतीति तयो
पमितेति भाव । ' तमेव विदित्वातिमृत्युमेति' इति श्रुत ॥
ॐ ह्रींकारारण्यहरिण्यै नम ॥
 
ह्रींकारावालवल्लरी । ह्रींकारमन्त्रवाचकतानिरूपितवा
च्यतानामकसबन्धावच्छिन्न परदेवतास्वरूपत्वन तदुपासना
विषय फलदानसमर्था सती आवालमात्र प्ररोहद्विवृद्धवल्लय
पमीयते । तथा च तत्सबन्धितया ह्रींकार जपादिना आ
वाल इव सर्वदा सरक्षणीय इति तात्पर्यार्थ परिनिष्पन्न
इति यावत् ॥ ॐ ह्रींकारावालवल्लयै नम ॥
 
ह्रींकारपञ्जरशुकी । मन्दाधिकारिणामप्युपासनाकारण
साधारणपार्वती प्रतीकतया हूकारस्य बालकादिलालनविषय
त्वधर्मपुरस्कारण पञ्जरोपमा । तथा च तनत्यशुकीव सला
पादिना मनुष्यादिचित्तरखिनी । एव तत्तद्दृष्टानुसारेण फ-
लदानी सत्ती तयोपमितेति द्रष्टव्यम् । ह्रीकार पञ्जरमिव
शुकी तत्सार्थक्यकारिणीत्यभिप्राय ॥ ॐ ह्रींकारप
खरशुक्यै नमः ॥
 
ह्रींकाराङ्गणदीपिका । अङ्गणवत् सर्वसाधारण विश्रान्ति
स्थानतया ह्रींकारस्य तदुपमा तस्य दीपिका । यथाङ्गणारो