This page has not been fully proofread.

२५०
 
ललितात्रिशतीभाष्यम् ।
 
कारकन्दारिकायै नमः ॥
 
ह्रींकारैकपरायणा । ड्रींकार एव एक अनितरसाधारण
चतुर्विधपुरुषार्थसाधकतया परम् अयन ज्ञापक प्रमाण
यस्या सा तथा । अस्य बीजस्य वाच्यार्थो माया, सा निर-
धिष्ठाना न सिध्यतीति तदाश्रयत्वविषयत्वाभ्या तद्रहित तेन
ज्ञाप्यत इति भाव ॥ ॐ ह्रींकारैकपरायणायै नमः ॥
 
ह्रींकारदीर्घिकासी । ह्रींकार एव दीर्घिका राजोद्यान
वनक्रीडावापी । ससारकाननसचारिलोकविश्रान्तिकारण
त्वेन ह्रींकार तयोपमीयते, 'आराममस्य पश्यन्ति न त
पश्यति कश्चन' इति श्रुते । आ समन्ताद्रमत्यस्मिन इत्या
राम अथवा जगत् । तत्रोपासनादिना परमानन्दप्रापक-
तया वा ह्रींकार उपमीयते । तस्मिन् हसी स्त्रीहस । यथा
लोके सारासारविवेकहस्या आधारसुवर्णकमलादिमती वापि
का महाराजसबन्धिनी विज्ञाप्यते, तद्वद्वान्यार्थरूपतया प्रका
शमाना सती स्वसबन्धिबीजस्य सुखोत्पादकत्व मोक्षहेतुत्व
द्योतयतीत्यभिप्राय ॥ ॐ ह्रींकारदीर्घिकाहस्यै नम ॥
 
ह्रींकाराद्यानकेकिनी । ह्रींकार एव उद्यानवत् फलानुभा
वकत्वात् तथोन्यते तस्य केकिनी मयूरी । यथा लोके