This page has not been fully proofread.

२४८
 
ललितात्रिशतीभाष्यम् ।
 
दीना ह्रींकारवान्यार्थतया तदभिन्नत्वेऽपि जगद्विवर्तकारण
तथा सचिदानन्दाधायकत्वेन सजीवयतीति भाव ॥ ॐ
ह्रींकारशशिचन्द्रिकायै नमः ॥
 
'
 
ह्रींकार भास्कररुचि । भास कान्ती करोति प्रसारयति
लाकोपकारायेति तथा सूर्य तस्य रुचि प्रचण्डभानु ।
यथा लाके सूर्य वर्षाम्वतिगाढतरस्रवदुदकधारासव्याप्तदि
गन्तरासु दिवा विद्यमानोऽपि सूर्य साक्षादयमिति चाक्षुष
ज्ञानगाचरो न भवति, तदभावे शिष्टाना भोजनादिसजीव
कव्यवहाराभावन तदुपायासिद्धयाप्रसन्नमनासि भवन्ति,
तथा ज्ञानमार्गानधिकारिणा मोक्षमार्गोपायभूताविदितदेवता
रूपकाराणा जनाना बहुतरपुण्यमहिम्ना महावातनेव मेघा
बलौ दूरीकृताया [चण्डभानुरिव सुखसाधन गुरुकृपापाङ्गाव
लोकनरूपदीक्षावशेन प्रतिबन्धक दुरितापगमे परदेवतारूप
हूकार पुरश्चर्यया साक्षाद्वाच्यार्थापरोक्षज्ञानहेतुर्भवति ।
चिरकालनैरन्तर्यभावनाप्रकर्षेण तस्मिन्नभिमुखे मति तल्ल
क्ष्यार्थरूपपरमानन्दचित्कला स्वयमेवाभिव्यक्ता सत्यानन्दा
नुभवामृतेन सुखयतीति तथोच्यते ॥ ॐ ह्रींकारभास्कर
रुचये नमः ॥
 
ह्रींकाराम्भोदचञ्चला । अम्भासि अमृतानि ददतीत्य