This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२३५
 
दिस्मृतिश्रुतिभ्याम् ईश्वरस्य रूपभेदवत्त्वावगमादिति मन्त
व्यम् ॥ ॐ हरिसोदर्यै नम ॥
 
हाहाहूहू मुखस्तुत्या । हाहाहूहूनामकगन्धर्वै मुख्यौ येषा
जनाना तैस्तथा । स्तुत्या गुणिनिष्ठगुणाभिधान स्तुति ।
तदाश्रयत्वेन प्रतिपादनीयेत्यर्थ ॥ ॐ हाहाहूहूमुखस्तु
त्यायै नमः ॥
 
'
 
हानिवृद्धिविवर्जिता । अवयवोपचयरूपा वृद्धि, तदप
चयरूपा हानि ताभ्या वर्जिता, 'न कर्मणा वर्धते नो
कनीयान्' इति श्रुते । उपलक्षणम्, षड्भावविकाराणा
शरीरधर्मत्वेन कर्मनिमित्तत्वादीश्वरे तदभावेन निर्विकारे-
त्यर्थ ॥ ॐ हानिवृद्धिविवर्जितायै नमः ॥
हय्यङ्गवीनहृदया हरिगोपारुणाशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥
 
हय्यङ्गवीनहृदया । हय्यङ्गवीनवत् नवनीतसदृशविरल
मृद्ववयवपरिणामद्रवत्वसादृश्ययोगिहृदयकृपारसरूपपरिणा
मवतीति सा तथा । हृदयाभावेऽपि सर्वात्मकतया तद्वत्वम् ।
ईक्षणादिवन्मायापरिणामरूपा दया वा हृदयशब्देन उन्यते ।
' अवागमना ' इति श्रुत्या सर्वनिषेधात् ॥ ॐ हयङ्गवी
नहृदयायै नमः ॥
 
"