This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२३३
 
हार्दतमसापहा । हृदयावच्छिन्न हार्द, 'यो वेद नि
हित गुहायाम्' इति श्रुते । अस्मिन् यत्सतमस आवारक
त्वात् 'तम आसीत्' इति श्रुत्या च आत्मविषयक तदाश्रय
मज्ञानम् अनर्थकरम् अव्याकृताकाशमित्युच्यते, महावाक्य
श्रवणजन्यधीवृत्तिप्रतिफलिताकारेणापहन्तीति सा तथा ।
नाह ब्रह्मास्मि ससारी ब्रह्म नास्ति न भाति च -- इत्यज्ञानस्य
सोऽह ब्रह्मास्मि सच्चिदानन्दलक्षण इति एकाकारवृत्तिबा
ध्यत्वनियमेन बाधाधिष्ठानम् ' नेह नाना' इति श्रुतिसिद्ध
ब्रह्मरूपेति यावत् ॥ ॐ हार्दतमसापहायै नमः ॥
 

 
-
 
हल्लीसलास्यसतुष्टा । हल्लीसै चित्रदण्डै कुमारिकाभि
एकतालादियुक्तगीतपूर्वक यल्लास्य नर्तन तस्मिन् सतुष्टा
प्रीतिमतीत्यर्थ । ' नारीणा मण्डलीनृत्य बुधा हल्लीसक
विदु ' इति हारावलीकोशात् मण्डलाकार नृत्यसतुष्टेत्यर्थ ॥
ॐ हल्लीसलास्यसतुष्टायै नमः ॥
 
इस मन्त्रार्थरूपिणी । हसै परमहसै उपाभ्यो यो मन्त्र
प्रणव तस्य शास्त्रबोधिततत्त्वायरूपिणी । वाच्यलक्ष्यार्थस्व
रूपेण ज्ञायमानेत्यथ । अथवा, हसमन्त्र अजपा । हकार
सकारी शोधिततत्त्वपदार्थों, हकारस्य परोक्षवाचिन सकार -
स्य तादृशस्य च भागत्यागलक्षणया निष्प्रपञ्चनित्यशुद्धमु