2026-02-23 00:05:15 by ambuda-bot
This page has not been fully proofread.
२३०
ललितात्रिशतीभाष्यम् ।
ज्ज्वलतीति । आहोस्वित्, कार्यकारणद्वयरूपवसुदानेन वसु
स्वरूपेण वा उज्ज्वलति प्रकाशत इति तथा, 'वसुरन्तरिक्ष
सत्' इति श्रुते ॥ ॐ हाटकाभरणोज्ज्वलायै नम ॥
हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥
हारहारिकुचाभोगा । हरस्य परमेश्वरस्य इमे सबन्धिन
द्वारा ईश्वरत्वाप्तकामत्वनित्यतृप्तत्वादयो गुणा, तान् हरति
तद्विपरीताविद्याद्याधानेन उत्सादयतीति हारहारी, कु
चयोराभोग पर्यन्तभूमि यस्या सा तथा । परमेश्वरस्य
तद्विषयकवाञ्छया तदेकसक्तमनस्त्वेन तत्कारणीभूताविद्या
वशवृत्तित्वेन वशीकृतमायत्वस्वरूपेश्वरत्व समानाधिकरणा
प्तकामत्वादय अपहृता, जीवेश्वरयोरेकत्र तेषा तद्गुणा-
नाच सामानाधिकरण्यायोगादित्यर्थ । तथा च ईश्वरस्य
मदिष्टसाधनमित्यन्यत्र पदार्थे बुद्धिमत्त्वस्यैव बहुभवनरूपत
या तस्य जगदाकारत्वाघायका - इत्यधिकगुणोत्प्रेक्षाविषयत्वेन
भोगस्यातिशयोक्तिरिति द्रष्टव्यम् । अथवा, हारान् मुक्तास्र
ज हरति आदत्ते इति हारहारी कुचाभोगो यस्था सेति
तथा षट्कारेण मुक्ताहारेण यथोचितकाल भूषितवतीति
भाव ॥ ॐ हारहारिकुचाभोगायै नमः ॥