This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२२७
 
च अन्योन्यगुणयोर्जयपराजये, अर्थात्तद्वतोरपि तौ सिद्धावि-
ति तन्नामोपपत्ति ।' विवाहश्च विवाद समयोरेव शोभते'
इति वचनात् करतल तत्साम्यध्वनिरनेन नाम्ना कृत ।
करेण निर्जिता पल्लवा यस्या सा तथा ॥ ॐ करनिर्जित
पल्लवायै नमः ॥
 
कल्पवल्लीसमभुजा कस्तूरीतिलकाश्चिता ।
हकारार्था हसगतिहटकाभरणोज्ज्वला ॥
 
,
 
कल्पवल्लीसमभुजा । यथा दिव्यवृक्षा नन्दनोद्याने प्र
सिद्धा तथा तदलकाराय वल्ल्यादयोऽपि कल्पयन्ति सपा
दयन्तीति कल्पा कल्पाश्च ता वल्ल्यश्च व्रतत्य, ताभि
समा भुजा हस्ता यस्या सा तथा । कविसप्रदायप्रात्या
स्त्रीभुजाना वल्लीसाम्योक्तिरिति मन्तव्यम् । अत्र समपद
स्वारस्येन तेषामपि तदवच्छिन्न चैतन्यद्वारा यथाप्रारब्ध चे
तनवल्लोकवान्छितफलकतृत्वमिति ध्वनितम् । 'एकस्तथा
सर्वभूतान्तरात्मा रूप रूप प्रतिरूपो बहिश्च' इति श्रुते,
' तत्तदेवावगच्छ त्वं मम तेजोंशसभवम्' इति स्मृतौ च
भगवता स्वकीय सच्चिदानन्दस्वरूपावस्थितिरेवोक्ता । अत एव
परदेवीभुजाना नैव साम्योक्तिरिति शङ्का निरस्ता वेदि