This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२२३
 
'मणि
 
करभोरु । करभ इव ऊरू यस्या सा तथा ।
बन्धादाकनिष्ठ करस्य करभो बहि ' इति प्रमाणादिति भा
व ॥ ॐ करभोरवे नमः ॥
 
कलानाथमुखी । कला चतु षष्टिकला नाथयति प्रेर
यतीति कलानाथ, 'निश्वसितमेतदृग्वेदो यजुर्वेद साम-
बेद ' इत्यादिश्रुते, 'शास्त्रयानित्वात्' इति न्यायाञ्च ।
ताहशमुख वदन यस्या सेति तथा । कलानाथश्चन्द्र इव
मुख यम्या सेति वा ॥ ॐ कलानाथमुख्यै नम ॥
 
कच जिताम्बुदा । कचेन कशभारेण कबरेण वेत्यर्थं ।
जिता अधरीकृता अम्बुदा मेघा गया सा तथा, मेघम-
ण्डलापेक्षया ऊर्ध्वगामिशिरोरुहभारा व्योमकेशीति भाव ।
अथवा, केशवृत्तिनीलरूपेण सादृश्यासहत्वेन धिक्कृता
मेघा यया सा तथा ॥ ॐ कचजिताम्बुदायै नम ॥
 
कटाक्षस्यन्दिकरुणा । यद्यपि दीनेषु परिपाल्यता बुद्धि-
देवाना महता करुणेत्युच्यते, तथापि तस्या अन्तरत्वेन
अज्ञायमानतया तेषु भक्त्यतिशयेन प्रवृत्त्यर्थे सेवादौ तद्वत्ता
ज्ञानस्यावश्यकफलप्रदानादिहेतुतया निश्चयेन तदनुरूपकसा
स्विकवीक्षणस्मेरसभाषणादिसत्त्व तत्रावश्य भवतीति का-
 
र्यसत्त्वप्रसञ्जितकारणमस्ववत्त्वात्, करुणाया नवरसेष्व-