This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२१९
 
यस्या सेति तथा ॥ ॐ सर्वाधारायै नमः ॥
 
सर्वगता । सर्वे गच्छतीति तथा । 'अनेन जीवेनात्म
नानुप्रविश्य ' इति श्रुते ॥ ॐ सर्वगतायै नमः ॥
 
,
 
सर्वावगुणवर्जिता । अवमानहतवश्च ते गुणाश्च तथा,
आध्यात्मिक सबन्धन आरोपिता सत्त्वादय समष्टौ, अन्त
करणधर्मा कामादय व्यष्टौ सर्वे च ते अवगुणाश्च तथा ।
सर्वान्तर्यामित्वेन मवानुस्यूतत्वेऽपि तत्तदुपाधिनिष्ठोत्तमाधम
धर्मै न सबध्यत --- - घटादिनिष्ठाकाशवत् कोशान्तर्गतखङ्गव
द्वा, 'सूर्यो यथा सर्वलोकस्य चक्षु न लिप्यते चाक्षुषैर्बाह्य
दोषै । एकस्तथा सर्वभूतान्तरात्मा न लिप्यत लोकदु खेन
बाह्य ' इति श्रुते ॥ ॐ सर्वावगुणवर्जितायै नमः ॥
 
सर्वारुणा । सर्वेष्वङ्गेष्वरुणा आरक्तवती, 'असौ यस्ता
म्रो अरुण ' इति श्रुते ॥ ॐ सर्वारुणायै नमः ॥
 
सर्वमाता । सर्वेण कार्येण मीयते अनुमीयते ऽभदनेति
तथा । तथा हि- इद जगत् ब्रह्माभिन्न तत्सत्ता स्फूर्तिनिय
तसत्ताप्रकाशज्ञानविषयत्वात् यत् यनियतसत्ताप्रकाशवान्
स तदभिन्न यथा तन्तुकार्य पट इति । सर्वान मिनाति
स्वाभेदेन जानातीति तथा ॥ ॐ सर्वमात्रे नमः ॥
 
-
 
'