This page has not been fully proofread.

२१८
 
ललितात्रिशतीभाष्यम् ।
 
सबसौख्यदात्री । सुखिन भाव सौख्यम्, सर्वाणि च
तानि प्रियमोदप्रमोदानन्दशब्दवाच्यानि । इष्टदर्शनजन्य
सुख प्रिय । तल्लाभजन्य मोद । तदनुभवजन्य प्रमोद ।
आनन्द समष्टि । जीव भोक्ता । तानि ददातीति तथा ।
सर्वप्रकारै स्मरणादिभि सौख्य ददातीति वा । सर्वेषा
मात्रास्तम्बपर्यन्ताना यथाकर्मोपासन प्रत्यक्षेण दृश्यमान
ज्ञानैश्वर्यादिसहित सुख ददातीति वा तथा । 'एष ह्यवानन्द
याति' इति श्रुते ॥ ॐ सर्वसौख्यदात्र्यै नमः ॥
 
सर्वविमाहिनी । सर्वान विमोहयतीति अन्यथा ग्राहय
तीति वा तथा । ' अज्ञानेनावृत ज्ञान तन मुह्यन्ति जन्त
व 'अनृतेन हि प्रत्यूढा' इति श्रुतिस्मृतिभ्या अज्ञाना
वरणशक्तिकार्य मोहनादिसत्ताप्रकाशादिप्रधानाधिष्ठानत्वेन
उपचारात् सर्व माहयतीत्युच्यत । अयो दहतीतिवत् ॥ ॐ
सर्वविमोहिन्यै नम ॥
 
सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥
 
सर्वाधारा
 
सर्वस्याधारा ' ब्रह्म पुच्छ प्रतिष्ठा' इति
 
श्रुते । सर्वेषा हृदयानि आधार अभिव्यक्तिस्थान उपासनाय