This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२१५
 
सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वत्र सर्वत्र सर्वहन्त्री सनातना ।
 
सकाररूपा । द्वितीयखण्डद्वितीयावयवत्वेन ज्ञापक य-
स्या मा तथा ॥ ॐ सकाररूपायै नमः ॥
 
सर्वज्ञा । अलुप्तनित्यज्ञानम्वरूपेण सामान्यरूपेण सर्वे
जानातीति सर्वज्ञा, 'य सर्वज्ञ सर्ववित्' इति श्रुते ॥
ॐ सर्वज्ञायै नमः ॥
 
सर्वेशी । सर्वस्य कार्यस्य अन्तर्यामिरूपेण ईष्टे प्रेरयती
ति तथा ॥ ॐ सर्वेश्यै नमः ॥
 
सर्वमङ्गला । सर्वप्रकारेण शुद्धविशिष्ट चैतन्यरूपेण मन
ला परमानन्दस्वरूपा । अत्र बहुव्रीहेरविवक्षितत्वात् विव-
क्षिताया वा सुन्दरकायो राजत्यादिवत् समासार्थ । अथवा,
सर्वेषा मङ्गल यस्या सा तथा । सर्वै प्रकार ध्यानकीर्त
नपूजानमस्काराद्यर्चनभक्तिजन्य कैङ्कर्यै जडानामपि मङ्गल
सुख यस्या जायत सा तथा । सर्वेषामात्मरूपतया प्रतीय
मान मङ्गल सुखस्वरूप यस्या मेति वा । सर्वशब्दवाच्य
सर्वकारण शिव, तस्य मङ्गल सुख यस्या जायते सा तथा,
 
चिन्मय शिव साक्षात्तस्यानन्दमयी शिवा' इति न