This page has not been fully proofread.

२१४
 
ललितात्रिशतीभाष्यम् ।
 
हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदोल्लसा ॥
 
हरिद्राकुङ्कुमादिग्धा । हरिद्राकुङ्कुमाभ्या उपलक्षण कस्तू-
पत्रादीनाम् । दिग्धा लिप्तेत्यर्थ ॥ ॐ हरिद्राकुङ्कुमादि
धायै नमः ॥
 
I
 
हर्यश्वामराचिता । हर्यश्व सुरेश आदिर्येषाम् अम
राणा तैरर्चिता किंकरतया नियामकत्वेन पूजितेत्यर्थ ॥
ॐ हर्यश्वाद्यमरार्चितायै नमः ॥
 
हरिकेशसखी । हरय हरिद्वर्णा केशा शिरोरुहा या,
'हिरण्यमश्रुर्हिरण्यकेश ' इति श्रुते । तस्य सखी प्रयोज
नमनपेक्ष्योपकारिणीत्यर्थ । यद्वा वर्णेन नीलेन हरिणा विष्णु-
ना समा केशा अस्य सन्तीति सर्वाङ्गसुन्दरनित्ययौवनचि
द्रूपसहितकामेश्वर, तस्य सखी ॥ ॐ हरिकेशसख्यै नमः ॥
 
हादिविद्या । लोपामुद्रापासितमनुरूपत्यर्थ ॥ ॐ हादि
विद्यायै नमः ॥
 
हालामदालसा । हालाया
 
अमृतमथनाद्भूतवारुण्या
 
मदेन उल्लासेन अलसा आरक्तनेत्रान्तरोमाश्वादिचिह्नवती
 
त्यर्थ ॥ ॐ हालामदालसायै नमः ॥