This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२१३
 
हतदानवा । हता दानवा अनेकप्रकारशक्तिरूपधरया
भण्डासुरादय यया सा तथा ॥ ॐ हतदानवायै नमः ॥
 
हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोक्तुकुचा हस्तिकृत्तिप्रियाङ्गना ॥
 
हत्यादिपापशमनी । हत्या ब्रह्महत्या आदिर्येषा तानि
तथा पापानि शमयतीति तथा, 'हरिहरति पापानि ' इति
वचनात् ॥ ॐ हत्यादिपापशमन्यै नमः ॥
 
हरिदश्वादिसेविता । हरित् हरिद्वर्ण मरकत इव अश्वो
यस्येन्द्रस्य स तथा आदिर्येषा दिक्पतीना तै सविता चर
णारविन्दसनिधिं किंकरतयाश्रितेत्यथ ॥ ॐ हरिदश्वा
दिसेवितायै नमः ॥
 
हस्तिकुम्भोक्तुङ्गकुचा । हस्त अस्यास्तीति हस्ती, तभ्य
कुम्भौ तद्वदुन्नतौ कुचौ सान्द्रौ यस्या सा तथा ॥ ॐ
स्तिकुम्भोगकुचायै नम ॥
 
हस्तिकृत्तिप्रियाङ्गना । हस्तिन कृत्तौ चर्मणि प्रिय
प्रीतिमान् शिव तस्याङ्गना भामिनीत्यथ ॥ ॐ हस्तिक
तिमियाङ्गनायै नमः ॥
 
'