This page has not been fully proofread.

२१२
 
ललितात्रिशतीभाष्यम् ।
 
इन्द्रो देवश उपलक्षण सर्वदेवभेदानाम । तैर्वन्दिता नम
स्कृता ॥ ॐ हरिब्रह्मेन्द्रवन्दितायै नम ॥
 
हयारूढासेविताङ्घ्रिर्हयमेधसमर्चिता ।
हर्यक्षवाहना हसवाहना हतदानवा ॥
 
हयारूढा सेविताहि । हयारूढानाम अश्वमात्रसेनानी
शक्ति वश्यकरी । तया सेवितो अडी यस्या सा तथा ॥
ॐ हयारूढासेवितायै नम ॥
 
हयमेधसमर्चिता । इयमेधेन अश्वमेधेन समचिता पू
जिता । पुरुषत्वादिप्रात्यै इलादिभिरित्यथ ॥ ॐ हयमेध
समर्चितायै नमः ॥
 
"
 
हर्यक्षवाहना । वाहयतीति वाहनम् हयक्ष केसरी वाहन
यस्था सा तथा । महालक्ष्मीरूपदुर्गेत्यर्थ ॥ ॐ हर्यक्षवा-
नायै नमः ॥
 
,
 
हसवाहना । हन्ति गच्छतीति इस सूर्य प्राणो वा,
वाहनवत् आधारभूतप्रतीकमित्यर्थ, अभिव्यक्तिस्थानमिति
यावत्, 'म यश्चाय पुरुषे । यश्चासावादित्ये । स एक इति
श्रुते । अथवा, हसवाना ब्राह्मीरूपेणेत्यर्थ ॥ ॐ हंस
वाहनायै नमः ॥