This page has not been fully proofread.

२१०
 
ललितात्रिशतीभाष्यम् ।
 
या शुद्धस्वरूपपरमानन्दतया प्रेप्सितत्वात् श्रवणादिजन्य-
वृत्तिव्याप्यत्वरूपवेदनाविषयत्वम् । ' ब्रह्मण्यज्ञाननाशाय वृत्ति
व्याप्तिरितीर्यते ' ' मामेव ये प्रपद्यन्ते मायामेताम्' इत्यादि
वचनात् भगवताप्यङ्गीकृतमिति । हूँ।कारेण गुरुमुखोद्भूतेन
वेद्या वेदितु योग्या । तत्स्वरूपपरिज्ञानद्वारा तत्प्राप्तिरूपपु
रुषार्थहेतुत्वादिति तात्पर्यम् ॥ ॐ ह्रींकारवेद्यायै नमः ॥
 
ह्रींकारचिन्त्या । अस्य बीजस्य पश्चप्रणवान्तर्गतत्वेन
ॐकारभेदे ब्रह्मप्रतीकत्वाविशेषात् । प्रणवे यथा परापरत्र-
ह्यापासनहेतुवदस्मिन वा प्रतीके तद्भवतीति विकल्प । यदा
भक्तिपार्थक्येन मन्त्रविशेषेषु भवतीति योगवेदमार्गरहस्य न
वादजल्पाद्यवकाश । ह्रींकारे उभयविधब्रह्मस्वरूपतया चि-
न्तितु योग्या । ध्यानस्य साक्षात्कार प्रत्यारादुपकारकत्वेन
ध्यातव्येत्यर्थ ॥ ॐ ह्रींकारचिन्त्यायै नमः ॥
 
ह्रीं हृन् हरण इति धातुपाठात् समस्तविधैश्वर्यप्रदा
नादिशक्त्यारोपाधिष्ठानत्वे सत्यपवादावशेषितपरमानन्दरूप
मुक्तिरित्यथ ॥ ॐ ह्रीं नम ॥
 
ड्रींगरीरिणी । मूलमन्त्रात्मिकेति यावत् हीमेव शरीर
मूर्तिरस्या अस्तीति शरीरिणी । ॐ ह्रांशरीरिण्यै नम ॥