This page has not been fully proofread.

ललितात्रिशती भाष्यम् ।
 
२०९
 
हूकारवाच्या मायोपाधिकब्रह्मणि कल्पितधर्मेण
शब्दप्रवृत्त्युपपन्त ह्रींपदस्य वाच्या रूढयेत्यर्थ ॥ ॐ ह्रीं
कारवाच्यायै नमः ॥
 
ह्रींकार पूज्या । 'मूलमन्त्रेण पूजयेत्' इति पूजाङ्गत्वन मू
लमनोर्विनियोग श्रूयते । मूलमनुश्च देवताया स्वक नामेति
वचनात् । अन्तमुखानामेव मन्त्रशास्त्रेषु तन्नान्ना व्युत्पन्नत्वा
न्। कार नमोऽन्तमुच्चार्य यथागुरुमप्रदाय श्रीचक्रादौ
मूलदेवता पूजनीयेत्यागमरहस्यात् हॉबीजेनैव पूजयितु यो
ग्या । अतिप्रियबीजनामत्वादित्यभिप्राय ॥ ॐ ह्रींकार
पूज्यायै नम ॥
 
ह्रींकारपीठिका । अत्र पीठशब्द आधारलक्षक । वा
स्यार्थो हि वाचकशब्दस्य सत्ताप्रदत्वेन आधारो भवति ।
मन्त्रदेवतयारभेदेऽपि अर्थनिष्ठमहिम्न तद्वाचकपदे ऽदृश्यमा-
नत्वात् कल्पितभेद सपाद्येदमुच्यते । ह्रींकारस्य पीठिका
वृत्तिस्थान शक्त्या गोचरतया विषयीभूतत्यर्थ ॥ ॐ ह्रींका
रपीठिकायै नमः ॥
 
siकारवेद्या । स्वरूपत निगुणब्रह्मतया अज्ञानविषयत्वा-
श्रयत्वाभ्यामप्राप्तपुरुषार्थरूपतया समाग्दशाया प्रतीयमान-
त्वात् गुरूपसदन श्रवणादिरूपविध्यप्रामाण्यनिरासाय लक्ष-
 
SU II 14