This page has not been fully proofread.

ललितात्रिशतीभाष्यम् ।
 
२०७
 
सेति वा तथा ॥ ॐ ह्रींकारलक्षणायै नमः ॥
ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला पदाराध्या गर्भा ह्रींपदाभिधा ॥
ह्रींकारजपसुप्रीता । ह्रींकारस्य जप ह्रींकारजप, तेन
सुप्रीता ॥ ॐ ह्रींकारजपसुप्रीतायै नम ॥
 
ह्रींमती । वाचकत्वेन लक्षकत्वेन वा लक्ष्यपदार्थरूपेण
वा वाक्यवाचकयोरभेदेन वा अस्या अस्तीति ह्रींमती ॥
ॐ ह्रींमत्यै नमः ॥
 
'
 
ह्रींविभूषणा । केवलजडमायावाचक ह्रींकार, तथा
हि - हकार श्वेतवाचक, रेफ रोहिताथक, ईकार नीला
थक तथा च विशिष्टस्य शुक्लरतनीलवत्पदार्थवाचक
तया सत्वरजस्तमोगुणवत्प्रकृतिवाचकत्वेन परिच्छिन्नानृत
जडदु खस्वरूपवाच्यार्थकतया प्रकाशराहित्येन अनुपादेय
ताया सत्या तदवच्छिन्न स्वप्रकाशचैतन्याकारतया विशिष्टा
र्थस्य आपादमस्तकभूषित तरुणीवदानन्दस्वरूपतया तद्वाच
कहींपदस्य अष्टैश्वर्यसिद्धिप्रदानशक्त्याधायकतया शोभायमा
न भूषणवत् ' कुण्डली पुरुष ' इत्यत्र कुण्डलस्योपलक्षणतया
इतरसजातीयादिव्यावर्तकत्वम्, तथास्यापि बीजस्येतरव्या
वृत्तवाच्यार्थगोचरप्रमाजनकत्वेन भूषणवत् यस्या सा
 
"