This page has not been fully proofread.

२०६
 
ललितात्रिशतीभाष्यम् ।
 
कारस्य मायाप्रकाशकत्वेन, वटधानादि स्वनिष्ठवृक्षाभिव्य
ञ्जकत्वेन कारणतया यथा बीजमित्युच्यते - सत्कार्यवादिना-
मव्यक्तनामरूपकारण बीजम्, अभिव्यक्तनामरूपात्मक पश्च ।
द्भावि कार्यमित्यङ्गीकार, सकलकारणसमवधाने विशेषनाम-
रूपवत्तया कारणस्याभिव्यक्तिरुत्पत्ति तथा चोक्तबीजस्य
 
'
 
'
 
मायावच्छिन्न चैतन्याभिव्यञ्जकत्वेनापि बीजत्वम्, तादृश
ह्रींकारबीज यस्या सा तथा ॥ ॐ ह्रींकारबीजायै नमः ॥
 
ह्रीकारमन्त्रा । ह्रींकारस्य मननात् त्रायत रक्षति वाच्य-
वाचकयोरभेदादिति तथा । ह्रीकारघटितो मन्त्रो वा यस्या
स्वा इति वा तथा ॥ ॐ ह्रींकारमन्त्रायै नमः ॥
 
ह्रींकारलक्षणा । हकार शिव, आकाशबीजत्वादाकाश-
निर्लेप रेफ वह्निबीज कार्योत्पादसनिहित शक्तिमदी
श्वरवाचकम, तथा च हकारयुक्तरेफ शुद्धचैतन्यमेव
कारणतावच्छिन्नम् - इति वदति । ईकार मन्मथबीज
तत्कारणलक्षकतया स्थितिहेतु विष्णुरूपचैतन्यमभिदधाति ।
अनुस्वारस्तस्मिन्नेव पदार्थे अभिन्ननिमित्तोपादाने लय वक्ति ।
तथा च हीमित्युक्ते जगदुत्पत्तिस्थितिलयकारण चैतन्य
शक्त्या वाच्यार्थ प्रतीयते । तस्यैवोपाधिपरित्यागरूपलक्षण
यस्या सा तथा । ह्रींकार लक्षण तटस्थलक्षण यम्या