2026-02-23 01:40:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>भवानीभुजंगम् ।
</ignore>
<verse>इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥
</verse>
<verse>भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ १७ ॥
</verse>
<trailer>इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
भवानीभुजंगं संपूर्णम् ॥
</trailer>
<ignore>२६१
</ignore>
</page>
<ignore>भवानीभुजंगम् ।
<verse>इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥
<verse>भवानी भवानी भवानी त्रिवार-
मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ १७ ॥
<trailer>इति श्रीमत्परमहंस
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
भवानीभुजंगं संपूर्णम् ॥
<ignore>२६१
</page>