2026-02-23 01:39:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२६०
</ignore>
<ignore>भवानीभुजंगम् ।
</ignore>
<verse>त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्व
वं
त्वमानन्दसंवित्स्वरूपां भजेऽहम ॥।म् ॥ १२ ॥
</verse>
<verse>श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमंमत्र प्रमुग्धः किलाहम् ॥ १३ ॥
</verse>
<verse>गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
</verse>
<verse>शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥
</verse>
</page>
<ignore>२६०
<ignore>भवानीभुजंगम् ।
<verse>त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्
त्वमानन्दसंवित्स्वरूपां भजेऽह
<verse>श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेद
<verse>गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १४ ॥
<verse>शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥
</page>